(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.103. अध्यायः 103
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति शत्रुजयोपायादिप्रतिपादकेन्द्रबृहस्पतिसंवादानुवादः॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच। 12-103-0x(5607)(68785)
कथं मृदौ कथं तीक्ष्णे महापक्षे च भारत।
अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह॥ 12-103-1(68786)
भीष्म उवाच। 12-103-2x(5608)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर॥ 12-103-2(68787)
बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः।
उपसंगम्य पप्रच्छ वासवः परवीरहा॥ 12-103-3(68788)
अहितेषु कथं ब्रह्मन्प्रवर्तेयमतन्द्रितः।
असमुछिद्य चैवैतान्नियच्छेयमुपायतः॥ 12-103-4(68789)
सेनयोर्थ्यतिषङ्गे च जयः साधारणो भवेत्।
किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी॥ 12-103-5(68790)
ततो र्मार्थकामानां कुशलः प्रतिभानवान्।
राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम्॥ 12-103-6(68791)
न जा कलहेनेच्छेन्नियन्तुमपकारिणः।
बालैर सवितं ह्येतद्यदमर्षो यदक्षमा॥ 12-103-7(68792)
न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता॥ 12-103-8(68793)
क्रोधं भयं च हर्षं च नियम्य स्वयमात्मनि।
अमित्र पसेवेत विश्वस्तवदविश्वसन्॥ 12-103-9(68794)
प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत्।
विरमेच्छुष्कवैरेभ्यः कर्णजापं च वर्जयेत्॥ 12-103-10(68795)
यथा वैतंसिको युक्तो द्विजानां सदृशस्वरः।
तान्द्विजान्कुरुते वश्यांस्तथायुक्तो महीपतिः।
वशं चोपनयेच्छत्रून्निहन्याच्च पुंरदर॥ 12-103-11(68796)
न नित्यं परिभूयारीन्सुखं स्वपिति वासव।
जागर्त्येव हि दुष्टात्मा संकरेऽग्निरिवोत्थितः॥ 12-103-12(68797)
न सन्निपातः कर्तव्यः सामान्ये विजये सति।
विश्वास्यैवोपसंनम्यो वशे कृत्वा रिपुः प्रभो॥ 12-103-13(68798)
संप्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः।
उपेक्ष्यमाणो विज्ञातो हृदयेनापराजितः।
अथास्य प्रहरेत्काले विधेर्वित्तलितो यदा॥ 12-103-14(68799)
दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः॥ 12-103-15(68800)
आदिमध्यावसानज्ञान्प्रच्छन्नं च विचारयेत्।
बलानि दूषयेदस्य जानन्नेव प्रमाणतः॥ 12-103-16(68801)
भेदेनोपप्रदानेन संसृजेदौषधैस्तथा।
न त्वेव खलु संसर्गं रोचयेदरिभिः सह॥ 12-103-17(68802)
दीर्घकालमपीक्षेत्त निग्राह्या एव शत्रवः।
कालकाङ्गी च युक्तः सन्नुपासीत शचीपते॥ 12-103-18(68803)
तथा प्रियं च वक्तव्यं यथा विस्रम्भमाप्नुयात्।
न सद्योऽरीन्विहन्याच्च द्रष्टव्यो विजयो ध्रुवः।
भूयः शल्यं घटयति नवं च कुरुते व्रणम्॥ 12-103-19(68804)
प्राप्ते च प्रहरेत्काले न च संवर्तते पुनः।
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपून्प्रति॥ 12-103-20(68805)
यं हि कालो व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम्।
दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षता॥ 12-103-21(68806)
औजस्यं जनयेदेव संगृह्णन्साधुसंमतम्।
कालेन साधयेत्कृत्यमप्राप्तो न हि पीडयेत्॥ 12-103-22(68807)
विहाय कामं क्रोधं च तथाऽहंकारमेव च।
युक्तो विवरमन्विच्छेदहितानां सदा नृपः॥ 12-103-23(68808)
मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम।
मायाः सुविहिताः शक्र शातयन्त्यविचक्षणम्॥ 12-103-24(68809)
निहत्यैतानि चत्वारि मायां प्रतिविधाय च।
ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन्॥ 12-103-25(68810)
यदेवैतेन शक्येत गुह्यं कर्तुं तदाऽऽचरेत्।
यच्छन्ति सतिवा गुह्यं मिथो विश्रावयन्त्यपि॥ 12-103-26(68811)
अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत्।
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम्॥ 12-103-27(68812)
भेदं च प्रथमं विद्यात्तूष्णीं दण्डं तथैव च।
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदातदा॥ 12-103-28(68813)
प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः।
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः॥ 12-103-29(68814)
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन्।
अमित्रमुपसेवेत न च जातु विशङ्कयेत्॥ 12-103-30(68815)
स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत्।
न च तेष्वाश्वसेद्राजा जाग्रतीह निराकृताः॥ 12-103-31(68816)
न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तम।
यथा विविधवृत्तानामैश्वर्यममराधिप॥ 12-103-32(68817)
तथा विविधशीलानामपि संभव उच्यते।
प्रयतेद्योगमास्थाय मित्रामित्रानधारयन्॥ 12-103-33(68818)
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः।
मातीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव॥ 12-103-34(68819)
यथा वप्रे वेगवति सर्वतः संप्लतोदके।
नित्यं विचरणाद्वाधस्तथा राज्यं प्रमाद्यतः॥ 12-103-35(68820)
न बहूनुपरुध्येत यौगपद्येन शात्रवान्।
साम्ना दानेन भेदेन दण्डेन च पुरंदर॥ 12-103-36(68821)
एकैकमेषां निष्पिष्य शिष्टेषु निपुणं चरेत्।
न तु शक्तोऽपि मेधावी सर्वानेवाचरेद्बुधः॥ 12-103-37(68822)
यदा स्यान्महती सेना हयनागरथाकुला।
पदातियन्त्रबहुला अनुरक्ता षडङ्गिनी॥ 12-103-38(68823)
यदा बहुविधां वृद्धिं मन्येत प्रतियोगतः।
तदा विवृत्य प्रहरेद्दस्यूनामविचारयन्॥ 12-103-39(68824)
न साम दण्डोपनिषत्प्रशस्यते
न मार्दवं शत्रुषु यात्रिकं सदा।
न सस्यघातो न च संकरक्रिया
न चापि भूयः प्रकृतेर्विचारणा॥ 12-103-40(68825)
मायाविभेदानुपसर्जनानि
वाचं तथैव प्रथमं प्रयोगात्।
आप्तैर्मनुष्यैरुपचारयेत
पुरेषु राष्ट्रेषु च संप्रयुक्तान्॥ 12-103-41(68826)
पुराऽपि चैताननुसृत्य भूमिपाः
पुरेषु भोगानखिलाञ्जयन्ति
पुरेषु नीतिं विहितां यथाविधि
प्रयोजयन्तो बलवृत्रसूदन॥ 12-103-42(68827)
प्रदाय गूढानि वसूनि नाम
प्रच्छिद्य भोगानपहाय च स्वान्।
दुष्टाः स्वदोषैरिति कीर्तयित्वा
पुरेषु राष्ट्रेषु च योजयन्ति॥ 12-103-43(68828)
तथैव चान्यैरपि शास्त्रवेदिभिः
स्वलंकृतैः शास्त्रविधानलिङ्गितैः।
सुशिक्षितैर्भाष्यकथाविशारदैः
परेषु कृत्यामुपधारयेच्च॥ 12-103-44(68829)
इन्द्र उवाच। 12-103-45x(5609)
कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम।
कथं दुष्टं विजानीयादेतत्पुष्टो ब्रवीहि मे॥ 12-103-45(68830)
बृहस्पतिरुवाच। 12-103-46x(5610)
परोक्षमगुणानाह सद्रुणानभ्यसूयति।
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्भुखः॥ 12-103-46(68831)
तूष्णींभावेऽपि विज्ञेयं न चेद्भवति कारणम्।
विश्वासं चोष्ठसंदंशं शिरसश्च प्रकम्पनम्॥ 12-103-47(68832)
करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते।
अदृष्टवद्विकुरुते दृष्ट्वा वा नाभिभाषते॥ 12-103-48(68833)
पृथगेत्य समश्नाति नेदमद्य यथाविधि।
आसने शयने याने भावा लक्ष्या विशेषतः॥ 12-103-49(68834)
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम्।
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत्॥ 12-103-50(68835)
एतान्येव यथोक्तानि बुध्येथास्त्रिदशाधिप।
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः॥ 12-103-51(68836)
इति दुष्टस्य विज्ञानमुक्तं ते सुतसत्तम।
निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वरः॥ 12-103-52(68837)
भीष्म उवाच 12-103-53x(5611)
स तद्वचः शत्रुनिबर्हणे रत
स्तथा चकारावितथं बृहस्पतेः।
चचार काले विजयाय चारिहा
वशं च शत्रूननयत्पुरंदरः॥ ॥ 12-103-53(68838)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्र्यधिकशततमोऽध्यायः॥ 103॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-103-5 व्यतिषङ्गे मिश्रणे युद्धे इत्यर्थः। साधारणोऽनियतः॥ 12-103-6 प्रत्युवाच गुरुः॥ 12-103-7 विवृतः सावधानः॥ 12-103-11 वितसः पक्षिबन्धनोपायस्तदुपजीवी वैतंसिकः॥ 12-103-12 स्वपिति महीपतिरित्यनुकर्षः॥ 12-103-13 सामान्ये अनिश्चिते॥ 12-103-14 प्रहरेत्काले किंचिद्विचलिते पदे इति झ. पाठः॥ 12-103-15 किंचास्य दण्डं सेनां च भेदेन दूषयेत्सः॥ 12-103-17 औषधैर्विषादिभिः॥ 12-103-20 रिपून्प्रति हन्तुकामस्य॥ 12-103-25 चत्वारि मार्दवादीनि॥ 12-103-26 यच्छन्ति निगृह्णन्ति॥ 12-103-27 अदृष्टेषु दूरस्थेषु ब्रह्मदण्डं पुरोहितद्वारमभिचारं प्रयुञ्जयात्। दृष्टे प्रत्यक्षशत्रौ चतुरङ्गिणीमपि प्रयुञ्ज्यात्॥ 12-103-32 विविधवृत्तानां अस्थिराणाम्॥ 12-103-35 वेगवति पूरे सति वप्रे तटे विचरणाद्विदारणाद्वाध इति योजना॥ 12-103-38 षडङ्गिनी रथतुरगमातङ्गपदातिकोशवणिक्पथवती॥ 12-103-39 विवृत्य प्रकटीभूय। दस्यूनां दस्यून्॥ 12-103-40 बलवति शत्रौ साम न प्रशस्यते किं तर्हि दण्डोपनिषत् रहस्यदण्डः। अत एव शत्रुषु मार्दवं पार्यन्तिकं न कार्यम्। नापि यात्रिकं सदा कार्यम्। जयस्यानि यतत्वात्। यात्रायां हि सस्यानां घातः। संकरक्रिया विषादिना जलादीनां नाशनम्। भूयः पुनः पुनः प्रकृते सप्तविधायाः विचारणा तस्मात्कपटपूर्वको दण्डएव श्रेयानित्यर्थः॥ 12-103-41 मायाविभेदान्नानाविधा मायाः प्रयुञ्जीत। तत उपसर्जनानि परस्परमितरेषां शत्रूणामुत्थापनादीनि॥ 12-103-42 एतान् शत्रून्पुरेषु तत्तत्स्थानेषु अनुसृत्य भोगांस्तदीयान् जयन्ति। नीतिं पुरेषु स्वीयतेषु॥ 12-103-43 अनुसरणभेवाह प्रदायेति। एते न ममामात्याः दुष्टाः मां त्यक्त्वा राजान्तारं प्रतिगता इति लोकमुखात्कीर्तयित्वा परेषां पुरेषु राष्ट्रेषु च तान्यो जयन्ति॥ 12-103-44 कृत्यामिव कृत्यां मृत्युकारिणीं देवताम॥ 12-103-47 तच्चेद्भवति कारणमिति थ.द. पाठः॥ 12-103-48 संसृष्टं संसर्गम्। असंसृष्टश्च परइव भाषते॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.